Harish Bhimani - Saraswati Vishwavijay Kavach şarkı sözleri
Sanatçı:
Harish Bhimani
albüm: Chants for Wisdom
अतः सरस्वती विश्व जय कवचं
श्री गणेशाय नमः
श्रृणु वत्स प्रवक्ष्यामि कवचं सर्वकामदम्
श्रुतिसारं श्रुतिसुखं श्रुत्युक्तं श्रुतिपूजितम्
उक्तं कृष्णेन गोलोके मह्यं वृन्दावने वने
रासेश्वरेण विभुना रासे वै रासमण्डले
♪
अतीव गोपनीयं च कल्पवृक्षसमं परम्
अश्रुताद्भुतमन्त्राणां समूहश्च समन्वितम्
यद्धृत्वा भगवान शुक्रः सर्वदैत्येषु पूजितः
यद्धृत्वा पठनाद ब्रह्मन बुद्धिमांश्च बृहस्पतिः
पठणाद्धारणाद्वाग्मी कवीन्द्रो वाल्मिको मुनिः
स्वायम्भुवो मनुश्चैव यद्धृत्वा सर्वपूजितः
प्रणादो गौतमः कण्वः पाणिनिः शाकटायनः
ग्रन्थं चकार यद्धृत्वा दक्षः कात्यायनः स्वयम्
♪
धृत्वा वेदविभागं च पुराणान्यखिलानि च
चकार लीलामात्रेण कृष्णद्वैपायनः स्वयम्
शातातपश्च संवर्तो वसिष्ठश्च पराशरः
यद्धृत्वा पठनाद ग्रन्थं याज्ञवल्क्यश्चकार सः
ऋष्यश्रृंगो भरद्वाजश्चास्तीको देवलस्तथा
जैगीलव्योऽथ जाबालिर्यत्द्धृत्वा सर्वपूजितः
♪
कवचस्यास्य विप्रेन्द्र ऋषिरेव प्रजापतिः
स्वयं छंदश्च बृहती देवता शारदा च सा
सर्वतत्त्वपरिज्ञानि सर्वार्थसाधनेषु च
कवितासु च सर्वासु विनियोगः प्रकीर्तितः
♪
श्रीं ह्रीं सरस्वत्यै स्वाहा शिरो मे पातु सर्वतः
श्रीं वाग्देवतायै स्वाहा भालं मे सर्वदावतु
♪
ॐ सरस्वत्यै स्वाहेति श्रोत्रे पातु निरन्तरम्
ॐ श्रीं ह्रीं भारत्यै स्वाहा नेत्रयुग्मं सदावतु
ऐं ह्रीं वाग्वादिन्यै स्वाहा नासां मे सर्वतोऽवतु
ॐ ह्रीं विद्याधिष्ठातृदेव्यै स्वाहा ओष्ठं सदावतु
ॐ श्रीं ह्रीं ब्राह्मयै स्वाहेति दन्तपङ्क्तिं सदावतु
ऐमित्येकाक्षरो मन्त्रो मम कण्ठं सदावतु
♪
ॐ श्रीं ह्रीं पातु मे ग्रीवां स्कन्धौ मे श्रीं सदावतु
ॐ श्रीं विद्याधिष्ठातृदेव्यै स्वाहा वक्षः सदावतु
ॐ ह्रीं विद्यास्वरुपायै स्वाहा मे पातु नाभिकाम्
ॐ क्लीं ह्रीं वाण्यै स्वाहेति मम हस्तौ सदावतु
ॐ सर्ववर्णात्मिकायै स्वाहा पदयुग्मं सदावतु
ॐ वागधिष्ठातृदेव्यै स्वाहा सर्वं सदावतु
♪
ॐ सर्वकण्ठवासिन्यै स्वाहा प्राच्यां सदावतु
ॐ ह्रीं जिह्वाग्रवासिन्यै स्वाहाग्निदिशि रक्षतु
ॐ ऐं ह्रीं क्लीं सरस्वत्यै बुद्धिजनन्यै स्वाहा
सततं मन्त्रराजोऽयं दक्षिणे मां सदावतु
ऐं ह्रीं श्रीं त्र्यक्षरो मन्त्रो नैरृत्ये मे सदावतु
कविजिह्वाग्रवासिन्यै स्वाहा मां वारुणेऽवतु
ॐ सर्वाम्बिकायै स्वाहा वायव्ये मां सदावतु
ॐ ऐं श्रीं गद्यपद्यनिवासिन्यै स्वाहा मामुत्तरेऽवतु
ऐं सर्वशास्त्रवासिन्यै स्वाहैशान्यै सदावतु
ॐ ह्रीं सर्वपूजितायै स्वाहा चोर्ध्वं सदावतु
ऐं ह्रीं पुस्तकवासिन्यै स्वाहाधो मां सदावतु
ॐ ग्रन्थबीजरुपायै स्वाहा मां सर्वतोऽवतु
♪
इति ते कथितं विप्र ब्रह्ममन्त्रौघविग्रहम्
इदं विश्वजयं नाम कवचं ब्रह्मरुपकम्
पुरा श्रुतं धर्मवक्त्रात पर्वते गन्धमादनि
तव स्नेहात्मयाऽख्यातं प्रवक्तव्यं न कस्यचित्
गुरुमभ्यर्च्य विधिवद वस्त्रालंकारचन्दनैः
प्रणम्य दण्डवद भूमौ कवचं धारयेत सुधीः
पञ्चलक्षजपेनैव सिद्धं तु कवचं भवेत्
यदि स्यात सिद्धकवचो बृहस्पतिसमो भवेत्
महावाग्मी कवीन्द्रश्च त्रैलोक्यविजयी भवेत्
शक्नोति सर्वं जेतुं च कवचस्य प्रसादतः
♪
इति श्री ब्रह्मवैवर्ते पुराणान्तर्गत प्रकृतिखण्डे चतुर्थाध्याये
सरस्वती विश्व विजय कवचं सम्पूर्णम्
Поcмотреть все песни артиста
Sanatçının diğer albümleri