Kishore Kumar Hits

Ravindra Sathe - Shri Shiva Ashtottarashatanamastotram şarkı sözleri

Sanatçı: Ravindra Sathe

albüm: The Best of Shiva Mantras


॥ श्रीशिवाष्टोत्तर शतनामस्तोत्रम् ॥
शिवो महेश्वरश्शम्भुः पिनाकी शशिशेखरः ।
वामदेवो विरूपाक्षः कपर्दी नीललोहितः ॥ १॥
शङ्करश्शूलपाणिश्च खट्वाङ्गी विष्णुवल्लभः ।
शिपिविष्टोऽम्बिकानाथः श्रीकण्ठो भक्तवत्सलः ॥ २॥
भवश्शर्वस्त्रिलोकेशश्शितिकण्ठश्शिवप्रियः ।
उग्रः कपाली कामारी अन्धकासुरसूदनः ॥ ३॥
गङ्गाधरो ललाटाक्षः कालकालः कृपानिधिः ।
भीमः परशुहस्तश्च मृगपाणिर्जटाधरः ॥ ४॥
कैलासवासी कवची कठोरस्त्रिपुरान्तकः ।
वृषाङ्को वृषभारूढो भस्मोद्धूलितविग्रहः ॥ ५॥
सामप्रियस्स्वरमयस्त्रयीमूर्तिरनीश्वरः ।
सर्वज्ञः परमात्मा च सोमसूर्याग्निलोचनः ॥ ६॥
हविर्यज्ञमयस्सोमः पञ्चवक्त्रस्सदाशिवः ।
विश्वेश्वरो वीरभद्रो प्नाणनाथः प्रजापतिः ॥ ७॥
हिरण्यरेतः दुर्धर्षः गिरीशो गिरिशोनघः ।
भुजङ्गभूषणो भर्गो गिरिधन्वा गिरिप्रियः ॥ ८॥
कृत्तिवासः पुरारातिर्भगवान् प्रमथाधिपः ।
मृत्युञ्जयस्सूक्ष्मतनुर्जगद्व्यापी जगद्गुरुः ॥ ९॥
व्योमकेशो महासेनजनकश्चारुविक्रमः ।
रुद्रो भूतपतिः स्थाणुरहिर्भुध्नो दिगम्बरः ॥ १०॥
अष्टमूर्तिरनेकात्मा सात्त्विकश्शुद्धविग्रहः ।
शाश्वतः खण्डपरशुरजः पाशविमोचकः ॥ ११॥
मृडः पशुपतिर्देवो महादेवोऽव्ययो हरिः ।
भगनेत्रभिदव्यक्तो दक्षाध्वरहरो हरः ॥ १२॥
पूषदन्तभिदव्यग्रो सहस्राक्षस्सहस्रपात् ।
अपवर्गप्रदोऽनन्तस्तारकः परमेश्वरः
अपवर्गप्रदोऽनन्तस्तारकः परमेश्वरः
अपवर्गप्रदोऽनन्तस्तारकः परमेश्वरः ॥ १३॥
इति श्री शिवाष्टोत्तरशतनामस्त्रोत्रम् समाप्तम् ॥

Поcмотреть все песни артиста

Sanatçının diğer albümleri

Benzer Sanatçılar